Following is taken from Madhva Bhashya on Mandukya Upanishad Agama karika 6 to 9:

> तां सृष्टिं बहुधा प्राहुः ज्ञानिनोऽज्ञानिनस्तथा । 
विष्णर्विकृतिमायाति महदादिस्वरूपीणीम् । तत्तद्विविधभूतिरस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः ।
स्वप्नमायासरूपां च केचिदज्ञा जनाः विदुः ।

> अविकारस्यचिन्मात्रस्वेच्छयैवाखिलं जगत् ।
उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ।
पूर्णशक्तेः कुतो माया सर्वज्ञात् स्वप्नवत् कुतः ।
सर्वदोषव्यतीतस्य विकारः कुत ईष्यते । 

> तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् ।  
यथार्थमेव संभूतमिति वेदवाचोऽखिलम् ।
केचित्कालात् एवैतां सृष्टिमाहुरकोविदाः । 
केचिद्रुद्राद्ब्रह्माश्चप्रधानादिति चापरे।

> विमूढाः सर्वे एवैते यतो नारायणः पराः । 
सर्वकर्ता सर्वशक्तिरैक एव न चापरः । 
प्रधानकालब्रह्मेश सर्वेऽपि तद्वशाः ॥