युवैव धर्मशीलः स्यात् अनित्यं खलु जीवितं । को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।। योगवाशिष्ठ
गृहारण्यसमा लोके गतब्रीड़ा दिगम्बराः । चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् ।। मृद्भस्मम्रक्षणाद्देवी मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासिनो ग्राम्याः किन्ते मुक्ता भवन्ति हि ।। तृणपर्णोदकाहाराः सततं वनवासिनः । हरिणादिमृगा देवि योगिनस्ते भवन्ति किम् ।। आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डुकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ।। वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः । जनानां पुरतो देवि विबुधाः किं भवन्ति हि ।। शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये । तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् ।। तस्मादित्यादिकं कर्मं लोकवञ्चनकारकम् ।। मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि ।। कुलार्णवतन्त्र
Which sins are equivalent to or even greater than Brahmhatya?